अनिगन्तो गतिः प्रकृतिस्वरो भवति अञ्चतौ वप्रत्यये परतः। प्राङ्, प्राञ्चौ, प्राञ्चः। प्राङ्, प्राञ्चौ, प्राञ्चः। स्वरितो वा अनुदात्ते पदादौ
८।२।६ इत्ययम् एकादेशः उदात्तः स्वरितो वा। पराङ्, पराञ्चौ, पराञ्चः।
अनिगन्तः इति किम्? प्रत्यङ्, प्रत्यञ्चौ, प्रत्यञ्चः। कृदुत्तरपदप्रकृतिस्वर इह भवति।
वप्रत्यये इति किम्? उदञ्चनः। चोरनिगन्तो ऽञ्चतौ वप्रत्ययः इत्येव स्वरो भवति वप्रतिषेधेन। पराचः। पराचा।
"वप्रत्यये" इति। वकारः प्रत्ययो यस्य स तथोक्तः। "प्राङ्()" इत्यादि। प्राञ्चीतीति "ऋत्विक्()"
३।२।५९ इत्यादिना क्विन्प्रत्ययः, स च वकारमात्र एव; ककारादीनामनुबन्धत्वात्(); तेषां चानैकान्तत्वात्()। "उगिदचाम्()"
७।१।७० इति नुम्(), एकवचने हल्ङ्यादि
६।१।६६ संयोगान्तलोपौ
८।२।२३,
"क्विन्? प्रत्ययस्य कुः"
८।२।६२ इति नकारस्य कुत्वं ङ्कारः। द्विवचनबहुवचनयोस्तु "स्तोश्चुना श्चुः"
८।४।३९ इति श्चुत्वं ञकारः। उपसर्गाकारेण सह "अकः सवर्णे दीर्घः"
६।१।९७। "पराङ्()" इत्यादि। पराशब्द आद्युदात्तः। तेन "स्वरितो वानुदात्ते पदादौ" ["स्वरिते वाऽनुदातेऽपदादौ" इति मुद्रितः पाठः--न्यासः काशिका, पदमंजरी च]
८।२।६ इत्येष विधिर्न भवति।
"प्रत्यङ्" इति।
अत्र प्रतिशब्दस्येगन्तत्वात्? परकृतिभावो न भवति।
ननु च यणादेशे कृते सोऽप्यनिगन्त एष? स्थानिवद्भावादिगन्तव्यपदेशः कृतेऽपि यणादेशे भविष्यतीत्यदीषः।
स्वरविधौ स्थानिवद्भावः प्रतिषिध्यत इति चेत्()? नैतदस्ति; "स्वरदीर्घयलोपेषु लोपाजादेशौ न स्थानिवत्(), अन्यस्तु स्थानिवदेव" (का।वृ।१।१।५८) इत्युक्तमेतत्()। "उदञ्चनः" इति। ल्युट्()। अत्राप्युत्तरपदप्रकृतिस्वर एव भवति। "चोरनिगन्तोऽञ्चतौ" इत्यादि। चोरित्यनेन "चौ"
६।१।२१६ इत्यनेन यदन्तोदात्तत्वं विधीयते तदुपलक्षयति। चोरितयस्यावकाशः--दधीचः, यत्र गतिर्न भवति; अनिगन्तसवरस्यावकाशो यत्राञ्चतेरकारनकारौ न लुप्येते--पराङ्(), पराञ्चादिति; इहोभयं प्राप्नोति--पराचः पराचेति अनिगन्तः स्वरो वति विप्रतिषेधेन। प्रतिषेधशब्दस्तत्राध्याहार्यः॥